Saturday, July 10, 2010

एकादशः स्कन्धः - प्रथमोध्याऽयः



श्रीमद्‍भागवतमहापुराणम्

एकादशः स्कन्धः

अथ प्रथमोध्याऽयः



श्रीशुक उवाच ।
कृत्वा दैत्यवधं कृष्णः सरामो यदुभिर्वृतः ।
भुवोऽवतारयद् भारं जविष्ठं जनयन् कलिम् ॥ १ ॥
ये कोपिताः सुबहु पाण्डुसुताः सपत्‍नैः ।
दुर्द्यूतहेलनकचग्रहणादिभिः तान् ।
कृत्वा निमित्तमितरेतरतः समेतान् ।
हत्वा नृपान् निरहरत् क्षितिभारमीशः ॥ २ ॥
भूभारराजपृतना यदुभिर्निरस्य ।
गुप्तैः स्वबाहुभिः अचिन्तयद्-अप्रमेयः ।
मन्येऽवनेर्ननु गतोऽप्यगतं हि भारं ।
यद्-यादवं कुलमहो अविषह्यमास्ते ॥ ३ ॥
नैवान्यतः परिभवोऽस्य भवेत् कथञ्चिन् ।
मत्संश्रयस्य विभवोन्नहनस्य नित्यम् ।
अन्तः कलिं यदुकुलस्य विधाय वेणु ।
स्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ॥ ४ ॥
एवं व्यवसितो राजन् सत्यसङ्कल्प ईश्वरः ।
शापव्याजेन विप्राणां संजह्रे स्वकुलं विभुः ॥ ५ ॥
स्वमूर्त्या लोकलावण्य निर्मुक्त्या लोचनं नृणाम्
गीर्भिस्ताः स्मरतां चित्तं पदैस्तान् ईक्षतां क्रियाः ॥ ६ ॥
आच्छिद्य कीर्तिं सुश्लोकां वितत्य ह्यञ्जसा नु कौ ।
तमोऽनया तरिष्यंतीति अगात् स्वं पदमीश्वरः ॥ ७ ॥
श्रीराजोवाच ।
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् ।
विप्रशापः कथमभूद् वृष्णीनां कृष्णचेतसाम् ॥ ८ ॥
यन्निमित्तः स वै शापो यादृशो द्विजसत्तम ।
कथमेकात्मनां भेद एतत् सर्वं वदस्व मे ॥ ९ ॥
श्रीबादरायणिरुवाच ।
बिभ्रद्‍वपुः सकलसुंदरसन्निवेशं ।
कर्माचरन्‌ भुवि सुमङ्गलं-आप्तकामः ।
आस्थाय धाम रममाण उदारकीर्तिः ।
संहर्तुमैच्छत कुलं स्थितकृत्यशेषः ॥ १० ॥
कर्मानि पुण्यनिवहानि सुमङ्गलानि ।
गायत् जगत् कलिमलापहराणि कृत्वा ।
कालात्मना निवसता यदुदेवगेहे ।
पिण्डारकं समगमन् मुनयो निसृष्टाः ॥ ११ ॥
विश्वामित्रः असितः कण्वो, दुर्वासा भृगुः-आङ्‌गिराः ।
कश्यपो वामदेवो-अत्रिः, वसिष्ठो नारदादयः ॥ १२ ॥
क्रीडन् तस्तान् उपव्रज्य, कुमारा यदुनंदनाः ।
उपसङ्गृह्य पप्रच्छुः, अविनीता विनीतवत् ॥ १३ ॥
ते वेषयित्वा स्त्रीवेषैः, साम्बं जाम्बवतीसुतम् ।
एषा पृच्छति वो विप्रा, अन्तर्वत्‍नीअ-असितेक्षणा ॥ १४ ॥
प्रष्टुं विलज्जती साक्षात्, प्रब्रूतामोघदर्शनाः ।
प्रसोष्यंती पुत्रकामा, किं स्वित् सञ्जनयिष्यति ॥ १५ ॥
एवं प्रलब्धा मुनयः, तान् ऊचुः कुपिता नृप ।
जनयिष्यति वो मंदा, मुसलं कुलनाशनम् ॥ १६ ॥
तत् श्रुत्वा ते अतिसंत्रस्ता, विमुच्य सहसोदरम् ।
साम्बस्य ददृशुः तस्मिन्, मुसलं खल्वयस्मयम् ॥ १७ ॥
किं कृतं मंदभाग्यैर्नः, किं वदिष्यंति नो जनाः ।
इति विह्वलिता गेहान्, आदाय मुसलं ययुः ॥ १८ ॥
तच्चोपनीय सदसि, परिम्लान-मुखश्रियः ।
राज्ञ आवेदयां चक्रुः, सर्वयादव सन्निधौ ॥ १९ ॥
श्रुत्वा अमोघं विप्रशापं, दृष्ट्वा च मुसलं नृप ।
विस्मिता भयसंत्रस्ता, बभूवुः द्वारकौकसः ॥ २० ॥
तच्चूर्णयित्वा मुसलं, यदुराजः स आहुकः ।
समुद्रसलिले प्रास्य, ल्लोहं चास्यावशेषितम् ॥ २१ ॥
कश्चिन् मत्स्योऽग्रसीत् लोहं चूर्णानि तरलैस्ततः ।
उह्यमानानि वेलायां लग्नान्यासन् किलैरकाः ॥ २२ ॥
मत्स्यो गृहीतो मत्स्य-अघ्नैः जालेन-अन्यैः सहार्णवे ।
तस्योदरगतं लोहं स शल्ये लुब्धकोऽकरोत् ॥ २३ ॥
भगवान् ज्ञातसर्वार्थ ईश्वरोऽपि तद्-अन्यथा ।
कर्तुं नैच्छद् विप्रशापं कालरूप्यन्वमोदत ॥ २४ ॥
इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां एकादशस्कन्धे प्रथमोऽध्यायः ॥ १ ॥